वांछित मन्त्र चुनें

यो वो॑ वृ॒ताभ्यो॒ अकृ॑णोदु लो॒कं यो वो॑ म॒ह्या अ॒भिश॑स्ते॒रमु॑ञ्चत् । तस्मा॒ इन्द्रा॑य॒ मधु॑मन्तमू॒र्मिं दे॑व॒माद॑नं॒ प्र हि॑णोतनापः ॥

अंग्रेज़ी लिप्यंतरण

yo vo vṛtābhyo akṛṇod u lokaṁ yo vo mahyā abhiśaster amuñcat | tasmā indrāya madhumantam ūrmiṁ devamādanam pra hiṇotanāpaḥ ||

पद पाठ

यः । वः॒ । वृ॒ताभ्यः॑ । अकृ॑णोत् । ऊँ॒ इति॑ । लो॒कम् । यः । वः॒ । म॒ह्याः । अ॒भिऽश॑स्तेः । अमु॑ञ्चत् । तस्मै॑ । इन्द्रा॑य । मधु॑ऽमन्तम् । ऊ॒र्मिम् । दे॒व॒ऽमाद॑नम् । प्र । हि॒णो॒त॒न॒ । आ॒पः ॥ १०.३०.७

ऋग्वेद » मण्डल:10» सूक्त:30» मन्त्र:7 | अष्टक:7» अध्याय:7» वर्ग:25» मन्त्र:2 | मण्डल:10» अनुवाक:3» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) जो राजा (वः-वृताभ्यः-लोकम्-अकृणोत्-उ) तुम वरण की हुई-प्रजाभाव से स्वीकार की हुई प्रजाओं के लिये सुखप्रद स्थान सम्पन्न करता है (यः) और जो (वः) तुम्हें (मह्याः-अभिशस्तेः-अमुञ्चत्) शत्रु द्वारा प्रेरित महती हिंसा से छुड़ाता है-बचाता है (तस्मै-इन्द्राय) उस राजा के लिए (आपः-मधुमन्तं देवमादनम्-ऊर्मिं प्र हिणोतन) हे प्रजाओं-प्रजाजनों ! तुम इन्द्रियप्रसादक मधु उन्नत अर्थात् उत्तम उपहार को समर्पित करो ॥७॥
भावार्थभाषाः - राजा जैसे प्रजाओं को कृपा और रक्षा से स्वीकार करता है-अपनाता है तथा विरोधी के प्रहारों से बचाता है, वैसे ही प्रजा को भी राजा के लिये भाँति-भाँति की उत्तम वस्तुएँ भेंट देनी चाहिये ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) इन्द्रः-राजा (वः वृताभ्यः लोकम्-अकृणोत् उ) युष्मभ्यं वृताभ्यः प्रजात्वेन स्वीकृताभ्यः खलु सुखलोकं सुखप्रदस्थानं करोति (यः) यश्च राजा (वः) युष्मान् (मह्याः-अभिशस्तेः-अमुञ्चत्) महत्याः परेण शत्रुणा प्रयुक्ताया हिंस्रायाः-मुञ्चति-वारयति (तस्मै-इन्द्राय) तस्मै राज्ञे (आपः-मधुमन्तं देवमादनम्-ऊर्मिम् प्रहिणोतन) हे प्रजाः-प्रजाजनाः ! यूयं मधुरम्-इन्द्रियप्रसादकरमुन्नतमुपहारं प्रेरयत-उपहरत ॥७॥